|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.202. अध्यायः 202
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति भनुबृहस्पतिसंवादानुवादः॥ 1।

Mahabharata - Shanti Parva - Chapter Text
मनुरुवाच। 12-202-0x(6048)(73007)
यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम्।
ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ॥ 12-202-1(73008)
यथाऽम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा।
तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति॥ 12-202-2(73009)
स एव लुलिते तस्मिन्यथा रूपं न पश्यति।
तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति॥ 12-202-3(73010)
अबुद्धिरज्ञानकृता अबुद्ध्या दूष्यते मनः।
दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः॥ 12-202-4(73011)
अज्ञानतृप्तो विषयेष्ववगाढो न पश्यति।
स दृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते॥ 12-202-5(73012)
तर्षच्छेदो न भवति पुरुषस्येह कल्मषात्।
निवर्तते तदा तर्षः पापमन्तर्गतं यदा॥ 12-202-6(73013)
`अन्तर्गतेन पापेन दह्यमानेन चेतसा।
शुभाशुभविकारेण न स भूयोऽभिजायते॥' 12-202-7(73014)
विषयेषु तु संसर्गाच्छाश्वतस्य तु संश्रयात्।
मनसा चान्यथा काड्क्षन्परं न प्रतिपद्यते॥ 12-202-8(73015)
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः।
अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि॥ 12-202-9(73016)
प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी।
तस्मादिन्द्रियचोरेभ्यो यच्छेदात्मानमात्मना॥ 12-202-10(73017)
इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः।
बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम्॥ 12-202-11(73018)
अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः।
मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति॥ 12-202-12(73019)
यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा।
`प्रसृतानीन्द्रियाण्येव प्रतिसंहरति कूर्मवत्।'
विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वाऽमृतमश्नुते॥ 12-202-13(73020)
उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम्।
`दृश्यते मण्डलं तस्य न च दृश्येत मण्डली।
तद्वद्देहस्तु संदृश्य आत्माऽदृश्यः परः सदा॥ 12-202-14(73021)
ग्रस्तं ह्युद्गिरते नित्यमुद्गीथं वेत्ति नित्यशः।
बाल्ये रथाभ्यां योगेन तत्वज्ञानं तु संमतम्॥' 12-202-15(73022)
स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति।
`आदत्ते सर्वभूतानां रसभूतं विकासवान्॥' 12-202-16(73023)
अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः।
प्राप्येन्द्रि गुणान्पञ्च सोऽस्तमावृत्त्य गच्छति।
`रश्मिमण्ड हीनस्तु न चासौ नास्ति तावता॥' 12-202-17(73024)
प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः।
प्राप्नोत्ययं कर्मफलं प्रवृत्तं धर्ममाप्तवान्॥ 12-202-18(73025)
विषया विनिवर्तन्ते निराहारस्य देहिनः।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥ 12-202-19(73026)
बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते।
तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम्॥ 12-202-20(73027)
अस्पर्शनमशृण्वानमनास्वादमदर्शनम्।
अघ्राणमवितर्कं च सत्वं प्रविशते परम्॥ 12-202-21(73028)
`अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः।
आत्मनः प्रसृता बुद्धिरव्यक्तं ज्ञानमुच्यते॥ 12-202-22(73029)
तस्माद्बुद्धिः स्मृता तज्ज्ञैर्मनस्तस्मात्ततः स्मृतम्।
तस्मादाकृतयः पञ्च मनः परममुच्यते॥ 12-202-23(73030)
तस्मात्परतरा बुद्धिर्ज्ञानं तस्मात्परं स्मृतम्।
ततः सूक्ष्मस्ततो ह्यात्मा तस्मात्परतरं न च।
इन्द्रियाणि निरीक्षन्ते मनसैतानि सर्वशः॥' 12-202-24(73031)
मनस्याकृतयो मग्ना मनस्त्वभिगतं मतिम्।
मतिस्त्वभिगता ज्ञानं ज्ञानं चाभिगतं महत्॥ 12-202-25(73032)
नेन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः।
न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मं त्वेतानि पश्यति॥ ॥ 12-202-26(73033)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्व्यधिकद्विशततमोऽध्यायः॥ 202॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-202-5 अज्ञानदुष्टो विषयेष्ववगाढो न दृश्यते इति ध. पाठः॥ 12-202-21 अघ्राणमवितर्षं चेति थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|